सामग्री पर जाएँ

महामनास्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महामनाः, [स्] त्रि, (महत् प्रशस्तं मनो यस्य ।) महाशयः । यथा, -- “महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च -- ॥” इति हेमचन्द्रः । ३ । ३१ ॥ (यथा, ऋग्वेदे । १० । १०३ । ९ । “इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो वेदानां जयतामुदस्थात् ॥” “महामनसां उदारमनसाम् ।” इति तद्भाष्ये सायनः ॥ महाशालपुत्त्रः । यथा, हरिवंशे । ३१ । २० । “महामना नाम सुतो महाशालस्य धार्म्मिकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महामनास्&oldid=157006" इत्यस्माद् प्रतिप्राप्तम्