महामहावारुणी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महामहावारुणी, स्त्री, (महती चासौ महा- वारुणी चेति ।) गङ्गास्नानस्य योगविशेषः । स तु शनिवारशतभिषानक्षत्रशुभयोगयुक्त- गौणचान्द्रचैत्रकृष्णत्रयोदशीरूपः । यथा, -- “शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥” इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम् ॥
