सामग्री पर जाएँ

महामात्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महामात्रः, पुं, (महती मात्रा मर्य्यादापरिमाणं यस्य ।) प्रधानः । इत्यमरः । २ । ८ । ५ ॥ सेना- पत्यादिषु महती मात्रा धनं परिच्छदो वा येषां ते तथा । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ३६ । १८ । “तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः । शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥” समृद्धः । (यथा, महाभारते । २ । ३१ । ६० । “राज्ञे भोजकटस्थाय महामात्राय धीमते ॥”) अमात्यः । (यथा, कामन्दकीये । ९ । ६९ । “दूषिते हि महामात्रे रिपुरुग्रोऽपि धीमता । स्वपक्षे यस्य विश्वास इत्थंभूतश्च निष्क्रियः ॥”) हस्तिपकाधिपः । इति मेदिनी । रे, १९० । (यथा च कथासरित्सागरे । १३ । १० । “इहत्यश्च महामात्रो द्बिरदेङ्गितवित्तदा । मद्येन क्षीबतां नेयो नैतञ्चेतयते यथा ॥” महादेवः । यथा, महाभारते । १३ । १७ । ८५ । “महामूर्द्धा महामात्रो महानेत्रो निशा- लयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महामात्रः&oldid=157011" इत्यस्माद् प्रतिप्राप्तम्