महामुनिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महामुनिः, पुं, (महांश्चासौ मुनिश्चेति ।) अगस्त्यः । बुद्धः । इति शब्दरत्नावली ॥ कृपा- चार्य्यः । कालः । इत्यजयपालः ॥ व्यासः । (श्रीनारायणः ।) यथा, श्रीभागवते । १ । १ । २ । “धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्- सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्- मूलनम् । श्रीमद्भागवते महामुनिकृते किंवापरैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्- क्षणात् ॥ (महामुनिः श्रीनारायणः । इति तट्टीकायां श्रीधरः ।) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥
