सामग्री पर जाएँ

महामृत्युञ्जय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महामृत्युञ्जयः, पुं, (महामृत्युं यमं जयतीति । जि + खच् मुम् च ।) शिवस्य मन्त्रविशेषः । यथा, -- देव्युवाच । “यदि मे महती प्रीतिस्तवास्ति कुलभैरव ! । कथयस्व विशेषेण महामृत्युञ्जयाभिधम् ॥ भैरव उवाच । शृणु देवि ! प्रवक्ष्यामि महामृत्युञ्जयाभिधम् । आयुर्वृद्धिकरं पुंसां मृत्योर्मृत्युकरं परम् ॥ यस्य विज्ञानमात्रेण चिरजीवी निरामयः । नित्यमष्टशतं जप्त्वा मृत्युं मृत्युपथं नयेत् ॥” इति मृत्युञ्जयतन्त्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=महामृत्युञ्जय&oldid=157032" इत्यस्माद् प्रतिप्राप्तम्