महामोह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महामोहः, पुं, (मोहः भ्रान्तिज्ञानम् । अतथाभूते वस्तुनि तथात्वज्ञानमित्यर्थः । महान् मोहः ।) भोगेच्छारूपाज्ञानम् । इति केचित् ॥ संसार- मूलकारणरागरूपमोहः । (महान् मोहो यस्मादिति च ।) महामोहजनककामराज- बीजम् । इति चण्डीप्रथममाहात्म्यटीकायां नागोजीभट्टः ॥ अपि च । “ससर्ज्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् । महामोहञ्च मोहञ्च तमश्चाज्ञानवृत्तयः ॥” इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥ अग्र इति ब्रह्मा स्वसृष्टौ प्रथममविद्यासृष्टीः ससर्ज्ज तत्र तमो नाम स्वरूपाप्रकाशः । मोहो देहाद्यहंबुद्धिः । महामोहो भोगेच्छा । तामिस्रः तत्प्रतिघाते क्रोधः । अन्धतामिस्रः तन्नाशे अहमेव मृतोऽस्मीति बुद्धिः । तदे- वोक्तं वैष्णवे । “तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः । महामोहश्च विज्ञेयो ग्राम्यभोगसुखैषणा ॥ मरणं ह्यन्धतामिस्रं तामिस्रं क्रोध उच्यते । अविद्या पञ्चपर्व्वा या प्रादुर्भूता महात्मनः ॥” इति तट्टीकायां श्रीधरस्वामी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महामोह¦ पु॰ महान् मोहः म्नान्तिहेतुकी वस्तुतोऽनिष्टे-[Page4743-b+ 38] ष्वपि रागः।
१ संसारतद्विषयकारणरूपेऽज्ञानभेदे
“तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः। महामोहस्तुविज्ञेयो ग्राम्यभोगसुखैषणा” इत्युक्ते
२ मैथुनादिसुखभोगे-च्छारूपे अन्तःकरणवृत्तिभेदे च। वैषयिकसुखस्य वस्तु-तोऽनिष्टत्वात् तथात्वम्।
“दशविधो महामोहः” सा॰का॰। शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधेषुविषयेषु रञ्जनीयेषु राग आसक्तिः” त॰ कौ॰ उक्ते
३ दशविधविषयरागे च।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महामोह/ महा--मोह m. great confusion or infatuation of mind Pur. Ra1jat. etc.
