महायज्ञः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महायज्ञः, पुं, (महान् यज्ञः ।) वेदपाठादि- रूपपञ्चप्रकारयज्ञः । यथा, -- “पाठो होमश्चातिथीनां सपर्य्या तर्पणं बलिः । एतैः पञ्च महायज्ञा ब्रह्मयज्ञादिनामकैः ॥” इत्यमरः । २ । ७ । १४ ॥ अपि च । “दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म एव च । एतैः पश्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा ॥ ब्राह्मणानां हितार्थाय इतरेषाञ्च तन्मुखाः । इतरेषान्तु वर्णानां ब्राह्मणैः कारिताः शुभाः ॥ एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति । अन्यथा ब्रीहयोऽप्येते एकैके मृगपक्षिणः ॥ मन्तव्या दातृभोक्तॄणां महामांसन्तु तत् स्मृतम् ॥” इति वराहपुराणम् ॥ (यथा च मनौ । २ । ३८ । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”)
