सामग्री पर जाएँ

महारसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महारसः, पुं, (महानतिमिष्टो रसोऽस्य ।) खर्ज्जूरः । कोषकारः । कशेरु । इति मेदिनी । से, ५९ ॥ इक्षुः । इति जटाधरः ॥ (अस्यपर्य्यायो यथा, -- “महारसोऽसिपत्रः स्यान्मृत्युपुष्पो मधुतृणः । इक्षुर्वंशककाण्डारभीरुपौण्ड्रादिभेदवान् ॥” इति वैद्यकरत्नमालायाम् ॥ (महान् रसः धातुद्रवः ।) पारदः । इति राज- निर्घण्टः ॥ (यथास्य पर्य्यायः । “पारदो रसधातुश्च रसेन्द्रश्च महारसः । चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=महारसः&oldid=157065" इत्यस्माद् प्रतिप्राप्तम्