महाराजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाराजः, पुं, (महांश्चासौ राजा प्रभाव- विशेषवानिति ।) पूर्ब्बजिनविशेषः । (महत्या दीप्त्या राजतेऽङ्गुलिषु शोभत इति । राज् + अच् ।) नखः । इति हेमचन्द्रः । ३ । २५८ । (महान् राजा । सर्व्वत्र “राजाहःसखिभ्यष्टच् । ५ । ४ । ९१ । इति समासान्तष्टच् ।) श्रेष्ठराजः । यथा, -- “अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज ! बद्धोऽस्म्यर्थेन कौरवैः ॥” इति महाभारते उद्योगपर्व्व ॥
