सामग्री पर जाएँ

महाराजोपचारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाराजोपचारः, पुं, (महाराजार्थ उपचारः । महाराजानामुपचारो वा ।) राजार्हपूजोप- करणम् । तद्यथा, -- “ततश्च चामरच्छत्रपादुकादीन् परानपि । महाराजोपचारांश्च दत्त्वादर्शं प्रदर्शयेत् ॥” विष्णुधर्म्मोत्तरे । “यथादेशं यथाकालं राजलिङ्गं सुरालये । दत्त्वा भवति राजैव नात्र कार्य्या विचारणा ॥” तत्र चामरमाहात्म्यं विष्णुधर्म्मोत्तरे । ‘तथा चामरदानेन श्रीमान् भवति भूतले । मुच्यते च तथा पापैः स्वर्गलोकञ्च गच्छति ॥’ छत्रस्य तत्रैव । ‘छत्रं बहुशलाकञ्च झल्लरीवस्त्रसंयुतम् । दिव्यवस्त्रैश्च संयुक्तं हेमदण्डसमन्वितम् ॥ यः प्रयच्छति कृष्णस्य छत्रलक्षायुतैर्वृतः । प्रार्थ्यते सोऽमरैः सर्व्वैः क्रीडते पितृभिः सह ॥’ तत्रैवान्यत्र । ‘राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्बिजो- त्तमाः । नाप्नोति रिपुजं दुःखं संग्रामे रिपुजिद्भवेत् ॥’ ‘उपानत्संप्रदानेन विमानमधिरोहति । यथेष्टं तेन लोकेषु विचरत्यमरप्रभः ॥’ ध्वजस्य तत्रैव । ‘लोकेषु ध्वजभूतः स्याद्दत्त्वा विष्णोर्वरं ध्वजम् । शक्रलोकमवाप्नोति बहूनब्दगणान्नरः ॥’ किञ्च । ‘युक्तं पीतपताकाभिर्निवेद्य गरुडध्वजम् । केशवाय द्बिजश्रेष्ठाः शक्रलोके महीयते ॥ यत्प्रासादे ध्वजारोपमाहात्म्यं लिखितं पुरा । तदत्राप्यखिलं ज्ञेयं तत्रात्रत्यमिदन्तथा ॥’ किञ्च । भविष्ये । ‘विष्णोर्ध्वजे तु सौवर्णदण्डं कुर्य्याद्विचक्षणः । पताका चापि पीता स्यात् गरुडस्य समीपगा ॥ व्यजनस्य । विष्णुधर्म्मोत्तरे । ‘तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात् पराम् ॥’ वितानस्य तत्रैव । ‘वितानकप्रदानेन सर्व्वपापैः प्रमुच्यते । परां निर्वृतिमाप्नोति यत्र यत्राभिजायते ॥’ खड्गादीनाम् । ‘दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर्नाभि- भूयते । दत्त्वा तद्वन्धनं मुख्यमग्न्याधेयफलं लभेत् ॥’ किञ्च । ‘पतद्ग्रहं तथा दत्त्वा शुभगस्त्वभिजायते । पादपीठप्रदानेन स्थानं सर्व्वत्र विन्दति ॥’ ‘दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । मार्ज्जयित्वा तथा तञ्च सुभगस्त्वभिजायते ॥ यत्किञ्चिद्देवदेवाय दद्याद्भक्तिसमन्वितः । तदेवाक्षयमाप्नोति स्वर्गलोकं स गच्छति ॥’ किञ्च । वामनपुराणे श्रीबलिं प्रति प्रह्लादोक्तौ । ‘श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्द्दनम् । वलिदानानि दीयन्ते अक्षयाणि विद्रुर्बुधाः ॥ अत्रापि केचिदिच्छन्ति दत्त्वा पुष्पाञ्जलित्रयम् । पूर्ब्बोक्ता दश शङ्खाद्या मुद्राः सन्दर्शयेदिति ॥” इति श्रीहरिभक्तिविलासे ८ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=महाराजोपचारः&oldid=157079" इत्यस्माद् प्रतिप्राप्तम्