महारात्रि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महारात्रिः, स्त्री, (महत्यां प्रलयावस्थायां राति आत्मस्वरूपं ददाति सुप्तशक्त्या सर्व्वान् जीवा- नात्मरूपेणावस्थापयति त्रायते पञ्चपर्व्वलक्ष- णाया अविद्याया सकाशात् रक्षतीति । त्रै + इ ।) ब्रह्मलयोपलक्षिता महाप्रलयरात्रिः । इति चण्डीटीकायां नागोजीभट्टः ॥ महत ईश्वरस्य रात्रिः । ब्रह्ममरणोपलक्षिता रात्रि- रित्यर्थः । इति देवीमाहात्म्यटीकायां विद्या- विनोदः ॥ अपि च । “ब्रह्मणाञ्च निपाते च महाकल्पो भवेन्नृप ! । प्रकीर्त्तिता महारात्रिः सा एव च पुरातनैः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५ अध्यायः ॥ (दुर्गा । यथा च मार्कण्डेये । ८१ । २० । “महारात्रि ! महाविद्ये ! नारायणि ! नमो- ऽस्तु ते ॥”) अर्द्धरात्रात् परं मुहूर्त्तद्वयम् । यथा, -- “अर्द्धरात्रात् परं यच्च मुहूर्त्तद्बयमुच्यते । सा महारात्रिरुदिता तद्दत्तमक्षयं भवेत् ॥” इति तन्त्रम् ॥ आश्विनशुक्लाष्टमी । नवरात्रम् । यथा, -- “शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै । महारात्रिर्महेशानि ! कालरात्रिं शृणु प्रिये ! ॥” इति शक्तिसङ्गमतन्त्रम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महारात्रि¦ स्त्री
“ब्रह्मणश्च निपाते च महाकल्पो भवेन्नृप!। प्रकीर्त्तिता महारात्रिः” इत्युक्ते महाकल्पात्मके
१ महा-प्रलये
“अर्द्धरात्रात पर यत्तु मुहूर्त्तद्वयमुच्यते। सामहारात्रिरुद्दिष्टा” तन्त्रोक्ते अर्द्धरात्रोपरि मुहूर्त्त-द्वयात्मके
२ रात्रिकाले।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महारात्रि/ महा--रात्रि f. =prec. L.
महारात्रि/ महा--रात्रि f. the -grgreat night of the complete destruction of the world Devi1m. Sch.
महारात्रि/ महा--रात्रि f. the 8th day in the light half of the month आश्विनL.
महारात्रि/ महा--रात्रि f. N. of a festival (kept by the left-hand worshippers on the 14th day of the dark half of माघ) RTL. 204
