सामग्री पर जाएँ

महारोगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महारोगः, पुं, (महान् घोरानिष्टकारकः रोगः । यद्वा, महा जन्मान्तरीणभुक्तावशिष्टातिशय- पातकेन जनितः रोगः ।) पापरोगः । स चाष्ट- विधो यथा । उन्मादः १ त्वग्दोषः २ राज- यक्ष्मा ३ श्वासः ४ मधुमेहः ५ भगन्दरः ६ उदरः ७ अश्मरी ८ । इति शुद्धितत्त्वे नारदः ॥ (यथा च आश्वलायने । २ । ७ । १७ । “महारोगेण वाभितप्तः प्राश्नीयादन्यतरां गतिं गच्छति ॥” “महारोगेण क्षयकुष्ठादिनेति” तद्वृत्तौ गार्ग्य- नारायणः ॥ विषयोऽस्य यथा, -- “महारोगाष्टके कासे ज्वरे श्वासातिसारके ॥” अस्य व्याख्यायां यथा, -- “वातव्याध्यश्मरीकुष्ठमेदोदरभगन्दराः । अर्शांसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्त्तिताः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्मणि रत्नगर्भ- पोट्टलीटीका ॥)

"https://sa.wiktionary.org/w/index.php?title=महारोगः&oldid=157094" इत्यस्माद् प्रतिप्राप्तम्