सामग्री पर जाएँ

महारौरवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महारौरवः, पुं, (रुरूणामयं इति । रुरु + अण् । महान् रौरवः । तत्र गता जीवाः क्रव्यन्- नामकैरुरुभिः पोड्यन्ते अत एवास्य तथा- त्वम् ।) नरकविशेषः । इत्यमरः । १ । ९ । १ ॥ महान् रौद्रो रवोऽत्र महारौरवः मनीषादि- त्वात् द्रलोपः । इति भरतः ॥ अपि च । “महारौरवसंज्ञन्तु अधोऽर्द्धं ताम्रसंपुटम् । धम्यते खदिराङ्गारैर्गुरुदारापनायकः ॥ देवद्रव्यापहारी च पच्यते कालमक्षयम् ॥” इति वह्निपुराणे पापनाशनवृषदानाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=महारौरवः&oldid=157099" इत्यस्माद् प्रतिप्राप्तम्