महार्णवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महार्णवः, पुं, (महान् सुविशालः अर्णवः ।) महासमुद्रः । यथा, -- “आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ (महान् अर्णव इव । प्रसादादिगुणबाहुल्यात् तथात्वम् ।) शिवः । इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (कूर्म्मरूपिभगवन्नाराय- णस्य दक्षपदोद्भवः जनपदः । यथा, मार्क- ण्डेये । ५८ । ३२ । “सौरष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः । एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ॥”)
