सामग्री पर जाएँ

महावराहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महावराहः, पुं, (महानीश्वरोऽपि सन् वराहः । महांश्चासौ वराहश्चेति वा ।) वराहरूपी भगवान् । यथा, -- “महावराहो गोविन्दः सुसेनः कनकाङ्गदी ॥” इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (राजविशेषः । यथा, कथासरित्सागरे । ५२ । ९२ । “अस्ति शूरपुरं नाम यथार्थं नगरं भुवि । महावराह इत्यासीद्राजा तत्रातिदुर्म्मदः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महावराहः&oldid=157133" इत्यस्माद् प्रतिप्राप्तम्