महाविद्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविद्या, स्त्री, (विद्यते ज्ञायते इति । विद् + क्यप् । टाप् । महती विद्या ज्ञानं तत्त्वसाक्षात्- कारो वा यस्याः ।) देवीविशेषः । सा दशधा । यथा चामुण्डातन्त्रे । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥ नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा । कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥ सिद्धविद्यातया नात्र युगसेवापरिश्रमः । नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥” मालिनीविजये । “अथ वक्ष्याम्यहं या या महाविद्या महीतले । दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥ काली नीला महादुर्गा त्वरिता छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥ कामाख्या वासली बाला मातङ्गी शैलवासिनी । इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥ सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः । अथ चैता महाविद्याः कलिदोषान्न बाधिताः ॥” इति तन्त्रसारः ॥ * ॥ तासां दशावतारत्वं यथा, -- “प्रकृतिर्विष्णुरूपा च पुंरूपश्च महेश्वरः । एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्द्दश ॥ कृष्णरूपा कालिका स्यात् रामरूपा च तारिणी । वगला कूर्म्ममूर्त्तिः स्यान्मीनो धूमावती भवेत् ॥ छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी । सुन्दरी यामदग्न्यः स्याद्वामनो भुवनेश्वरी ॥ कमला बौद्धरूपा स्यात् दुर्गा स्यात् कल्कि- रूपिणी । स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम् । स्वयञ्च भगवान् कृष्णः कालीरूपो भवेद्व्रजे ॥” इति मुण्डमालातन्त्रम् ॥ (गङ्गा । यथा, काशीखण्डे । २९ । १३९ । “महाविद्या महामाया महामेधा महौ- षधम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविद्या¦ स्त्री कर्म॰।
“काली तारा महाविद्या षोडशीभुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती तथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एताः दश-महाविद्याः” इत्युक्तासु काल्यादिषु दशसु देवीसु।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविद्या¦ f. (-द्या) The name of the following ten goddess:-- “काली तारा महाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धूमावती तथा | वगला सिद्धविद्या च मातङ्गी कमलात्मिका ||”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविद्या/ महा--विद्या f. a -grgreat or exalted science MW.
महाविद्या/ महा--विद्या f. N. of लक्ष्मीVP. (= विश्व-रूपो-पा-सनाComm. )
महाविद्या/ महा--विद्या f. of दुर्गाMa1rkP.
महाविद्या/ महा--विद्या f. of a मन्त्रCat.
महाविद्या/ महा--विद्या f. pl. of a class of personifications of the शक्तिor female energy of शिव(10 in number) RTL. 187
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a name of ललिता; फलकम्:F1: Br. IV. १८. १६.फलकम्:/F symbolical of देवी. फलकम्:F2: Vi. I. 9. १२०.फलकम्:/F