महाविराट्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविराट्, [ज्] पुं, (विशेषेण राजते प्रकाशते । इति । वि + राज् + क्विप् । महांश्चासौ विराट् चेति ।) महाविष्णुः । यथा, -- मुनिरुवाच । “विश्वानां गोलोकं राजन् ! विस्तृतञ्च नभः- समम् । शश्वन्नित्यं डिम्बरूपं श्रीकृष्णेच्छासमुद्भवम् ॥ जलेन परिपूर्णञ्च कृष्णस्य मुखबिन्दुना । सृष्ट्युन्मुखस्यादिसर्गे परिश्रान्तस्य क्रीडतः ॥ प्रकृत्या सह युक्तेन कलया निजया नृप ! । तत्राधारो महद्बिष्णोर्विश्वाधारस्य विस्तृतः ॥ प्रकृतीगर्भसंभूतडिम्बोहूतस्य भूमिप ! । सुविस्तृते जलाधारे शयानश्च महान् विराट् ॥ राधेश्वरस्य कृष्णस्य षोडशांशः प्रकीर्त्तितः । दूर्व्वादलश्यामरूपः सस्मितश्च चतुर्भुजः । वनमालाधरः श्रीमान् शोभितः पीतवाससा ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥
