महाविषुवचक्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविषुवचक्रम्, क्ली, (महाविषुवस्य चक्रम् ।) नक्षत्रघटितनराकारचक्रम् । यथा, “मूर्द्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् । त्रितयं हस्तपादेषु महाविषुवभक्रमात् ॥ मस्तके भूपतेः सौख्यं वदने पटुता स्वभे । हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ॥ वामे करे महद्दुःखं सुखं पादे च दक्षिणे । भ्रमणं वामपादे च कथितं विषुवत्फलम् ॥” इति ज्योतिषतत्त्वम् ॥
