महाविषुवम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाविषुवम्, क्ली, (विषु साम्यमस्त्यत्रेति । विषु + “वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् ।” ५ । २ । १०९ । इत्यस्य वार्त्तिकात् वप्रत्ययः । महच्च तत् विषुवञ्चेति । अस्मिन् समये दिवा- रात्र्योः समत्वात्तथात्वम् ।) मेषसंक्रान्तिः । यथा, -- “महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् ॥” इति शब्दरत्नावली ॥ तस्मिन् मसूरनिम्बपत्रद्वयभक्षणम् । यथा, कृत्य- चिन्तामणौ । “मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ । अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥” तत्र शक्त्वादिदानं यथा, -- “मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥” वारिपूर्णघटदानमन्त्रादि यथा, -- “एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥ वैशाखे यो घटं पूर्णं सभोज्यं वै द्बिजन्मने । ददाति सुरराजेन्द्र ! स याति परमां गतिम् ॥” महार्णवे । “यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् । पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥” तत्र छत्रपादुकादानं यथा, “विप्रेभ्यः पादुकाच्छत्रं पितृभ्यो विषुवे शुभम् ।” पितृभ्यः पितॄनुद्दिश्येत्यर्थः । इति तिथ्यादि- तत्त्वम् ॥
