महावीर्य्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महावीर्य्यः, पुं, (महत् विश्वसृष्टये विपुलं वीर्य्य- मस्य ।) ब्रह्मा । इति शब्दरत्नावली ॥ (महत् वीर्य्यं तपोबलमस्य ।) बुद्धभेदः । इति त्रिकाण्ड- शेयः ॥ वाराहीकन्दः । इति राजनिर्घण्टः ॥ (वितथस्य पुत्त्रभेदः । यथा, भागवते । ९ । २१ । १ । “वितथस्य सुतान्मन्योर्बृहत् क्षत्त्रो जयस्ततः । महावीर्य्यो नरो गर्गः संकृतिस्तु नरात्मजः ॥”) अतिशयबलयुक्ते, त्रि ॥ (यथा, महामारते । ५ । १७६ । ४६ । “ततः किल महावीर्य्यो भीष्मः शान्तनवो नृपान् । अधिक्षिप्य महातेजास्त्रिस्रः कन्या जहार ताः ॥” विराजः पुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ३९ । “नरो गयस्य तनयस्तत्पुत्त्रोऽभूद्विराट् ततः । तस्य पुत्त्रो महावीर्य्यो धीमांस्तस्मादजायत ॥”)
