महाव्याधिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाव्याधिः, पुं, (महांश्चासौ व्याधिश्चेति ।) महारोगः । स तु कुष्ठादिः । यथा, -- “सर्व्वव्याधिविनिर्मुक्तो महाव्याधिर्विशेषतः । पठनात् संप्रणश्येत्तु जीवन्मुक्तो भवेन्नरः ॥” इति ब्रह्मयामले गायत्त्रीकवचम् ॥
