महाव्रतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाव्रतम्, क्ली, (महच्च तद्व्रतञ्चेति ।) द्बादश- वार्षिकव्रतम् । यथा । ‘तेन वधकालादूर्द्ध्वं विंशत्यधिकशतस्य यावदवशिष्टं तावत्परि- माणमहाव्रतानुरूपा धेनवो दातव्याः ।’ इति प्रायश्चित्तविवेके भवदेवभट्टमतम् ॥ शरत्- कालीनदुर्गापूजनम् । यथा, -- “महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्त्तव्यं मुरराजेन्द्र ! देवीभक्तिसमन्वितैः ॥” इति तिथ्यादितत्त्वधृतदेवीपुराणवचनम् ॥ अरुणोदयकालीनमाघस्नानम् । यथा, -- “वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥ दिवाकर ! जगन्नाथ ! प्रभाकर ! नमोऽस्तु ते । परिपूर्णं कुरुष्वेद माघस्नानं महाव्रतम् ॥” इति मलमासतत्त्वधृतपद्मपुराणवचनम् ॥ (महाव्रतधारिणि, त्रि । यथा, महाभारते । १३ । ५४ । २१ । “ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम् । कौश्यां वृष्यां समासीनं जपमानं महा- व्रतम् ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the performance of this vow leads one to the world of गौरी. M. १०१. ५३.
