सामग्री पर जाएँ

महाशतावरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाशतावरी, स्त्री, (महती चासौ शतावरी चेति ।) बृहच्छतावरी । तत्पर्य्यायः । शत- वीर्य्या २ सहस्रवीर्य्या ३ सुरसा ४ महापुरुष- दन्तिका ५ वीरा ६ तुङ्गिनी ७ बहुपुत्त्रिका ८ ऊर्द्ध्वकण्टी ९ महावीर्य्या १० फणिजिह्वा ११ महाशता १२ सुवीर्य्या १३ । अस्या गुणाः । वश्यत्वम् । मधुरत्वम् । पित्तनाशित्वम् । हिमत्वम् । मेहकफवातघ्नत्वम् । तिक्तत्वम् । श्रेष्ठत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “महाशतावरी त्वन्या शतमूल्यूर्द्ध्वकण्टिका । सहस्रवीर्य्याहेरुश्च ऋष्यप्रोक्ता महोदरी ॥ महाशतावरी मेध्या हृद्या वृष्वा रसायनी । शतवीर्य्या निहन्त्यर्शोग्रहणीनयनामयान् ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाशतावरी/ महा--शतावरी f. a species of plant Bhpr.

"https://sa.wiktionary.org/w/index.php?title=महाशतावरी&oldid=339586" इत्यस्माद् प्रतिप्राप्तम्