महाशयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाशयः, त्रि, महान् आशयोऽभिप्रायो मनो वा यस्य सः । इति भरतः ॥ तत्पर्य्यायः । महेच्छः २ । इत्यमरः । ३ । १ । ३ ॥ महानु- भावः ३ । इति शब्दरत्नावली ॥ उदात्तः ४ महामनाः ५ । इति जटाधरः ॥ उद्भटः ६ उदारः ७ उदीर्णः ८ महात्मा ९ । इति हेम- चन्द्रः । ३ । १३१ ॥ (यथा, कथासरित्सागरे । ७२ । १२८ । “दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥” महान् आशयो जलानामाधारः ।) समुद्रे, पुं । इति शब्दरत्नावली ॥
