महाश्रावणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्रावणिका, स्त्री, (महती चासौ श्रावणिका च ।) क्षुपविशेषः । वड थुलकुडी इति भाषा । तत्पर्य्यायः । महामुण्डी २ लोचनी ३ कदम्बपुष्पी ४ विकचा ५ क्रोडा ६ चोडा ७ पलङ्कषा ८ नदीकदम्बः ९ मुण्डाख्या १० महा- मुण्डनिका ११ माता १२ स्थविरा १३ लोतनी १४ भूकदम्बः १५ अलम्बुषा १६ । अस्य गुणाः । उष्णत्वम् । तिक्तत्वम् । ईषन्मधुरत्वम् । वायु- शमनत्वम् । स्वरकृत्त्वम् । रेचनत्वम् । हेम- कृत्त्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “मुण्डी भिक्षुरपि प्रोक्तः श्रावणी च तपोधना । श्रवणाह्वा मुण्डितिका तथा श्रवणशीर्षिका ॥ महाश्रावणिकान्या तु सा स्मृता भूकदम्बिका । कदम्बपुष्पिका च स्यादव्यथा तु तपस्विनी ॥ मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः । मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत् ॥ श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्त्तिहृत् । महामुण्डी च मुण्डी च गुणैरुक्ता महर्षिभिः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्रावणिका¦ स्त्री कर्म॰। (थुलकुडी) क्षुपभेदे राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्रावणिका/ महा--श्रावणिका f. a species of medicinal drug L.

"https://sa.wiktionary.org/w/index.php?title=महाश्रावणिका&oldid=503462" इत्यस्माद् प्रतिप्राप्तम्