महाष्टमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाष्टमी, स्त्री, (महत्या महादेव्या अष्टमी । महती अष्टमीति वा ।) आश्विनशुक्लाष्टमी । यथा, -- “आश्विने शुक्लपक्षस्य भवेद् या अष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरा परा ॥” इति कालिकापुराणे ५९ अध्यायः ॥ तस्यां पूजाविधिः पुत्त्रवत् उपवासनिषेषधश्च यथा, -- “अष्टम्यां रुधिरैर्मांसैर्महामांसैः सुगन्धिभिः । पूजयेद्वहुजातीयैर्बलिभिर्भोजनैः शिवाम् ॥ सिन्दूरैः पट्टवासैश्च नानाविधविलेपनैः । पुष्पैरनेकजातीयैः फलैर्बहुविधैरपि ॥ उपवासं महाष्टम्यां पुत्त्रवान्न समाचरेत् । यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥ पूजयित्वा महाष्टम्यां नवम्यां वलिभिस्तथा । विसर्जयेद्दशम्यान्तु श्रवणे सावरोत्सवैः ॥” इति तत्रैव ६० अध्यायः ॥ तत्रार्द्धरात्रपूजा । यथा, -- “कन्यासंस्थे रवावीशे शुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥ पूजां समारभेद्देव्या नक्षत्रे वारुणेऽपि वा । पशुघातश्च कर्त्तव्यो गवलाजवधस्तथा ॥” इति देवीपुराणवचने वारुणपदेन पूर्ब्बाषाढो- च्यते । इति तिथ्यादितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाष्टमी¦ स्त्री कर्म॰।
“आश्विने शुक्लपक्षस्य भवेद् या तिथिरष्टमी। महाष्टमीति सा प्रोक्ता” इत्युक्तायामाश्विन-शुक्लाष्टम्याम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महाष्टमी/ महा f. ( हा-ष्)" -grgreat 8th " , the 8th day in the light half of the month आश्विन(or festival in honour of दुर्गा, called -D दुर्गा-पूजा) Ka1lP. Cat.