सामग्री पर जाएँ

महासहा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महासहा, स्त्री, (महासह + स्त्रियां टाप् ।) माषपर्णी । (पर्य्यायोऽस्या यथा, -- “सिंहपुच्छी ऋषिप्रोक्ता माषपर्णी महासहा । कृष्णवृन्ता च काम्बोजी पाण्डुलोमशपर्णिनी ॥” इति वैद्यकरत्नमालायाम् ॥ पर्य्यायान्तरं यथा, -- “माषपर्णी सूर्य्यपर्णी काम्बोजी हयपुच्छिका । पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अम्लानवृक्षः । इत्यमरः । २ । ४ । ७३ । (कुब्जकः । तत्पर्य्यायो यथा, -- “कुब्जको भद्रतरुणी बृहत्पुष्पोऽतिकेशरः । महासहा कण्टकाढ्या नीलालिकुलसङ्कुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महासहा स्त्री।

महासहा

समानार्थक:अम्लान,महासहा

2।4।73।2।5

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

 : रक्तमहासहा, पीतमहासहा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

महासहा स्त्री।

माषपर्णी

समानार्थक:हयपुच्छी,काम्बोजी,माषपर्णी,महासहा

2।4।138।2।4

पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती। हयपुच्छी तु काम्बोजी माषपर्णी महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महासहा/ महा--सहा f. N. of various plants Car. Sus3r. (Gomphraena Globosa , Glycine Debilis L. ; Wrightia Antidysenterica etc. L. )

"https://sa.wiktionary.org/w/index.php?title=महासहा&oldid=340272" इत्यस्माद् प्रतिप्राप्तम्