सामग्री पर जाएँ

महासान्तपनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महासान्तपनम्, क्ली, (महत् सान्तपनम् ।) व्रतविशेषः । यथा । अथ महासान्तपनम् । तत्र द्व्यहसाध्यसान्तपनमुक्त्वा याज्ञवल्क्यः । “पृथक्सान्तपनैर्द्रव्यैः षडहः सोपवासकः । सप्ताहेनैव कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ एतत् सप्ताहसाध्यम् । जावालः । “गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं क्रमशोऽश्नीयादहोरात्रमभोजनम् ॥ कृच्छ्रः सान्तपनो नाम सर्व्वपापप्रणाशनः । एकैकमेतदेवं हि त्रिरात्रमुपयोजयेत् ॥ त्र्यहञ्चोपवसेदन्त्यं महासान्तपने विधिः ॥” एतत् सप्ताहसाध्यसान्तपनमुक्त्वा एकविंशति- दिनसाध्यं महासान्तपनमुक्तम् । महासान्त- पनं धेनुषट्कदानसमम् । जावालोक्तमहा- सान्तपनस्य एकविंशतिदिनसाध्यत्वेन सप्ताह- साध्यसान्तपनात् त्रिगुणत्वान्महासान्तपने धेनु- षट्कं देयम् । इति प्रायश्चित्तविवेकः ॥

"https://sa.wiktionary.org/w/index.php?title=महासान्तपनम्&oldid=157237" इत्यस्माद् प्रतिप्राप्तम्