सामग्री पर जाएँ

महाहविः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महाहविः, [स्] क्ली, (महत् सुप्रशस्तं हविः ।) गव्यघृतम् । यथा, -- “गयायामथवा पिण्डं खड्गमांसं महाहविः । कालशाकं तिलाज्यं वा कृशरं मासतृप्तये ॥” इति मार्कण्डेयपुराणे श्राद्धकल्पः ॥ (तदात्मतया सर्वं जगत् हूयतेऽस्मिन् । यद्बा, महान्ति हवींषि आज्यपुरोडाशादिरूपा- ण्यस्य ।) विष्णुः ॥ इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (महान्तिहवींष्यत्र । बृहद्यागविशेषः । यथा, शतपथब्राह्मणे । २ । ५ । ३ । २० । “अथातो महाहविष एव तद् यथा महा- विषस्तथो तस्य ॥” “साकमेधेषु प्रधानभूताया महाहविराख्याया इष्टेरारम्मं प्रतिजानीते अथात इति ।” इति तद्भाष्यम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=महाहविः&oldid=157263" इत्यस्माद् प्रतिप्राप्तम्