महिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महिः, स्त्री, (मह्यते इति । महपूजायां अदन्त- चुरादिः + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) पृथिवी । इति शब्दमाला ॥ (महत् । यथा, ऋग्वेदे । २ । २४ । १४ । “सत्यो मन्युर्महि कर्म करिष्यतः ॥” “महि महत् कर्म्म करिष्यतः ।” इति तद्भाष्ये सायनः ॥ महिमा । यथा, भागवते । ८ । ८ । ४ । “तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥” “महिं महिमानम् ।” इति तट्टीकायां श्रीधरः ॥ महत्तत्त्वम् । यथा, भागवते । २ । १ । ३५ । “विज्ञानशक्तिं महिमामनन्ति ॥” “महिं महत्तत्त्वम् ।” इति तट्टीकायां श्रीधरः ॥)
