सामग्री पर जाएँ

महिषमर्द्दिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महिषमर्द्दिनी, स्त्री, (महिषं महिषाख्यमसुरं मृद्नातीति । मृद् + णिनिः । ङीप् ।) दुर्गा । इति शब्दरत्नावली ॥ अस्या मन्त्रा यथा, शार- दायाम् । “भान्तं वियत् सनयनं श्वेतो मर्द्दिनि ठद्वयम् । अष्टाक्षरी समाख्याता विद्या महिषमर्द्दिनी ॥” नारायणीतन्त्रे । “विषं हि मज्जा कालोऽग्निरद्रिरिस्थो निठ- द्बयम् ॥” विषं मकारः । हि स्वरूपम् । मज्जा षकारः । कालो मकारः । अग्नी रेफः । अद्रिर्द्दकारः । इस्थ इति वचनादिकारयुक्तो दकारः । अयं मन्त्रस्तारादिर्मायादिः कामादिर्वाग्भवादि- र्व्वधूबीजादिः कवचादिश्च नवाक्षरः । तथा च विश्वसारे । “प्रणवाद्यां जपेद्बिद्यां मायाद्यां वा जपेत् सुधीः । बधूबीजादिकां वापि कवचाद्यां जपेत्तथा ॥ सर्व्वकालेषु सर्व्वत्र कामाद्यां प्रजपेत् सुधीः । वाग्भवाद्यां जपेत्तान्तु देवीं वाक्यविशुद्धये ॥ अस्या ध्यानम् । गारुडोपलसन्निभां मणिमय- कुण्डलमण्डितां नौमि भालविलोचनां महिषो- त्तमाङ्गनिषेदुषीम् । शङ्खचक्रकृपाणखेटकबाण- कार्मुकशूलकान् तर्ज्जनीमपि बिभ्रतीं निज- बाहुभिः शशिशेखराम् ॥ इति तन्त्रसारः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महिषमर्द्दिनी¦ f. (-नी) The goddess DURGA
4. E. महिष the ASURA so named, and मर्द्दिनी destructress.

"https://sa.wiktionary.org/w/index.php?title=महिषमर्द्दिनी&oldid=341181" इत्यस्माद् प्रतिप्राप्तम्