सामग्री पर जाएँ

महिषाक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महिषाक्षः, पुं, (महिषस्य अक्षीवेति । “अक्ष्णो- ऽदर्शनात् ।” ५ । ४ । ७६ । इति समासान्तोऽच् ।) गुग्गुलुः । इति राजनिर्घंण्टः ॥ (तथास्य पर्य्यायः । “जटाषुः कालनिर्य्यासः कौशिको गुग्गुलुः पुरः । देवधूपः सर्व्वसहो महिषाक्षः पलङ्कषा ॥” इति वैद्यकरत्नमालायाम् ॥ अस्य व्यवहारविषयो यथा, -- “महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ । विशेषेण मनुष्याणां कनकः परिकीर्त्तितः ॥ कदाचिन्महिषाक्षश्च यतः कैश्चिन्नृणामपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=महिषाक्षः&oldid=157298" इत्यस्माद् प्रतिप्राप्तम्