महीध्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महीध्रः, पुं, (महीं धरतीति । धृ + कः ।) पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (यथा, श्रीभागवते । २ । ७ । ३२ । “गौपैर्मखे प्रतिहते ब्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षुः । धर्त्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त- वर्षो महीध्रमनघैककरे सलीलम् ॥” महीं धरति उद्धरतीति । धृ + कः । महेरु- द्धर्त्ता । यथा, तत्रैव । ३ । १३ । २६ । “उत्क्षिप्तबालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक् । खुराहताभ्रः सितदंष्ट्र ईक्षा- ज्योतिर्बभासे भगवान् महीध्रः ॥” “महीध्रः पृथिव्या उद्धर्त्ता ।” इति तट्टीकायां स्वामी ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महीध्र पुं।
पर्वतः
समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि
2।3।1।1।1
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥
अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः
: मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महीध्र¦ पु॰ महीं धारयति धृ--क। पर्वते अमरः। अच्। महीधरोऽप्यत्र।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महीध्र¦ m. (-ध्रः) A mountain. E. मही the earth, and धृ to uphold, aff. क, and the vowel changed to र |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महीध्र/ मही--ध्र m. (for -धर)a mountain MBh. Ka1v. etc.
महीध्र/ मही--ध्र m. N. of the number " seven " Su1ryas. (See. पर्वत)
महीध्र/ मही--ध्र m. N. of विष्णुBhP.