महीध्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महीध्रः, पुं, (महीं धरतीति । धृ + कः ।) पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (यथा, श्रीभागवते । २ । ७ । ३२ । “गौपैर्मखे प्रतिहते ब्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षुः । धर्त्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त- वर्षो महीध्रमनघैककरे सलीलम् ॥” महीं धरति उद्धरतीति । धृ + कः । महेरु- द्धर्त्ता । यथा, तत्रैव । ३ । १३ । २६ । “उत्क्षिप्तबालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक् । खुराहताभ्रः सितदंष्ट्र ईक्षा- ज्योतिर्बभासे भगवान् महीध्रः ॥” “महीध्रः पृथिव्या उद्धर्त्ता ।” इति तट्टीकायां स्वामी ॥)
