महेन्द्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महेन्द्रः, पुं, (महांश्चासाविन्द्रश्च ऐश्वर्य्यवानि- त्यर्थः ।) विष्णुः । इति महाभारते तस्य सहस्र- नामस्तोत्रम् ॥ शक्रः । (यथा, भागवते । ६ । १३ । ६ । “ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रवीत् ॥”) जम्बुद्वीपस्य पर्व्वतविशेषः । इति मेदिनी । रे, २०० ॥ (स च सप्तकुलाचलानामन्यतमः । यथा, मार्कण्डेये । ५७ । १० । “महेन्द्रो मलयः सह्यः सुक्तिमानृक्षपर्व्वतः । बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ॥”)
