महेश्वरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महेश्वरः, पुं, (महांश्चासावीश्वरश्च कर्त्तुमकर्त्तु- मन्यथाकर्त्तुं वा समर्थः । यद्वा, महत्या महामायया ईश्वरः ।) शिवः । इत्यमरः । १ । १ । ३२ ॥ अस्य व्युत्पत्तिर्यथा, -- “विश्वस्थानाञ्च सर्व्वेषां महतामीश्वरः स्वयम् । महेश्वरञ्च तेनेमं प्रवदन्ति मनीषिणः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः ॥ अस्य विवाहस्मरणफलं यथा, -- “महेश्वरसमायुक्तमीदृशं यः स्मरेत् हृदा । सततं तस्य कल्याणं वाञ्छितञ्च भविष्यति ॥” इति कालिकापुराणे शिवविवाहे ४३ अध्यायः ॥ (परमेश्वरः । तदुक्तं न्यायशास्त्रे । वायोर्नवैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्द्दश । दिक्कालयोः पञ्च षडेव चाम्बरे महेश्वरोऽष्टौ मनसस्तथैव च ॥” महान् ईश्वरः प्रजानां प्रभुः । ऐश्वर्य्यशाली राजा । यथा, महाभारते । १ । २२८ । २९ । “ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः । पाण्डरं गजमास्थाय तावुभौ समुपाद्रवत् ॥”)
