महोक्षः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महोक्षः, पुं, (महान् उक्षा । “अचतुरविचतु- रेति ।” ५ । ४ । ७७ । इति समासान्तः अच् । निपातितश्च ।) बृहद्वृषः । इत्यमरः । २ । ९ । ६१ ॥ तत्पर्य्यायः । वृषभः २ वृषः ३ पुङ्गवः ४ बली ५ गोनाथः ६ ऋषभः ७ गोप्रियः ८ उक्षा ९ गोपतिः १० । इति राजनिर्घण्टः ॥ (यथा, कथासरित्सागरे । ६० । ६६ । “महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि । तदिहानय तं युक्त्या तावत् पश्यामि कीदृशः ॥”)
