महोत्सवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महोत्सवः, पुं, (महांश्चासावुत्सवश्च ।) अतिशय- सुखजनककर्म्म । यथा, -- “सर्व्वैश्च जन्मदिवसे स्नातैर्म्मङ्गलपाणिभिः । गुरुदेवाग्निविप्राश्व पूजनीयाः प्रयत्नतः ॥ स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥” इति तिथ्यादितत्त्वे ब्रह्मपुराणवचनम् ॥ अपि च । कालिकापुराणे ६९ अध्याये । “दुर्गातन्त्रेण मन्त्रेण कुर्य्याद्दर्गामहोत्सवम् । महानवम्यां शरदि बलिदानं नृपादयः ॥”
