सामग्री पर जाएँ

महोत्साहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महोत्साहः, त्रि, (महान् उत्साहो यस्य ।) अति- शयोत्साहयुक्तः । (यथा, महाभारते । ५ । ५१ । १ । “सर्व्व एते महोत्साहा ये त्वया परिकीर्त्तिताः । एकतस्त्वेव ते सर्व्वे समेता भीम एकतः ॥”) तत्पर्य्यायः । महोद्यमः २ । इत्यमरः । ३ । १ । ३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३१ । “अतीन्द्रियो महामायो महोत्साहोमहाबलः ॥”)

महोत्साहः, पुं, (महान् उत्साहो यस्य ।) राज्याङ्गप्राप्तराजपुरुषः । यथा, -- “सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ॥” इति शब्दमाला ॥ अतिशयोद्यमश्च ॥

"https://sa.wiktionary.org/w/index.php?title=महोत्साहः&oldid=157354" इत्यस्माद् प्रतिप्राप्तम्