सामग्री पर जाएँ

महोदयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महोदयः, पुं, (महान् उदयः समुन्नतिर्यस्मिन् ।) कान्यकुब्जदेशः । आधिपत्यम् । (महान् उदय उत्कर्षो यस्मिन् ।) अपवर्गः । इति मेदिनी । ये, १२६ ॥ (महान् उदय उत्कर्षो यस्य ।) स्वामी । इति हेमचन्द्रः । ३ । ४९७ ॥ (महान् उदयः फलं यस्मिन् यस्माद्बा । महा- फले, त्रि । यथा, मनौ । ७ । ५५ । “अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किन्तु राज्यं महोदयम् ॥” “महोदयं महाफलम् ।” इति तट्टीकायां कुल्लूकभट्ठः ॥)

"https://sa.wiktionary.org/w/index.php?title=महोदयः&oldid=157359" इत्यस्माद् प्रतिप्राप्तम्