सामग्री पर जाएँ

महौजाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महौजाः, [स्] त्रि, अतितेजोयुक्तः । महदोजो यस्येतिविग्रहे बहुब्रीहौ प्रथमैकवचने अत्वसो- ऽधावित्यनेन दीर्घे कृते महौजा इतिपदं निष्पन्नम् ॥ (यथा, मनौ । १ । ६१ । “स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौ- जसः ॥” कालेयपुत्त्रासुरविशेषः । यथा, महाभारते १ । ६७ । ५३ । “पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः । महौजा इति विख्यातो बभूवेह परन्तपः ॥”)

"https://sa.wiktionary.org/w/index.php?title=महौजाः&oldid=157374" इत्यस्माद् प्रतिप्राप्तम्