सामग्री पर जाएँ

महौषधम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

महौषधम्, क्ली, (महत् औषधम् ।) भूम्या- हुल्यम् । शुण्ठी । (पर्य्यायो यथा, -- “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) लशुनम् । (पर्य्यायो यथा, -- “लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वाराहीकन्दः । वत्सनाभः । इति राजनिर्घण्टः ॥ पिप्पली । इति शब्दचन्द्रिका ॥ अतिविषा । इत्यमरः । २ । ९ । ३८ ॥ (महाभेषजम् । यथा, कथासरित्सागरे । ६६ । ३९ । “स्वभर्त्तॄन् प्रेर्य्य तेषाञ्च महासत्त्वान्महौषधैः । चिकित्सां कारयामासुर्नोत्तस्थुश्च तदन्ति- कात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=महौषधम्&oldid=157377" इत्यस्माद् प्रतिप्राप्तम्