महौषधिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महौषधिः, स्त्री, (महती ओषधिः ।) दूर्व्वा । लज्जालुक्षुपः । इति शब्दचन्द्रिका ॥ महा- स्नानीयद्रव्यविशेषः । यथा, -- “सहदेवी तथा व्याध्री बला चातिबला तथा । शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्च्चला ॥ महौषध्यष्टकं प्रोक्तं महास्नाने नियोजयेत् ॥” इति गोविन्दानन्दधृतमत्स्यपुराणवचनम् ॥ अपिच । “पृश्निपर्णी श्यामलता भृङ्गराजः शतावरी । गुडूची सहदेवी च महौषधिगणः स्मृतः ॥” इति शब्दचन्द्रिका ॥ श्रेष्ठौषधिश्च । (यथा, महाभारते । ३ । २८८ । ६ । “विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह । विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥” सञ्जीवनी । यथा, रघौ । १२ । ६१ । “दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकीविषवल्लीभिः परीतेव महौषधिः ॥” “महौषधीः सञ्जीवनी लतेव ।” इति तट्टीकायां मल्लिनाथः ॥)
