मांसलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मांसलः, त्रि, (अतिशयमांसमस्त्यस्येति । मांस + “सिध्मादिभ्यश्च ।” ५ । २ । ५७ । इति लच् ।) बलवान् । इत्यमरः । ३ । ६ । ४४ । स्थूलः । यथा, गारुडे ६६ अध्याये । “निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः । मांसलैश्च धनोपेतैरवक्रैरधरैर्नृपाः ॥” (मांसयुक्तः । यथा, बृहत्संहितायाम् । ६८ । २८ । “हृदयं समुन्नतं पृथु न वेपनं मांसलञ्च नृपतीनाम् ॥” अतिबहुलः । यथा, नैषधे । ९ । २७ । “ह्रदस्य हंसावलिमांसलश्रियो बलाकयेव प्रबला विडम्बना ॥”)
