सामग्री पर जाएँ

मांसविक्रयी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मांसविक्रयी, [न्] त्रि, (मांसविक्रयोऽस्यास्तीति । मांसविक्रयेण जीवति वेति इनिः ।) आमिष- विक्रयकर्त्ता । इति हलायुधः ॥ तत्पर्य्यायः । वैतंसिकः २ कौटिकः ३ मांसिकः ४ । इत्य- मरः । २ । १० । १४ ॥ शौनिकः ५ । इति जटाधरः ॥ कौटकिकः ६ । इति शब्दरत्ना- बली ॥ (यथा मनौ । ३ । १५१ । “चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मांसविक्रयी&oldid=157409" इत्यस्माद् प्रतिप्राप्तम्