मांसाष्टका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मांसाष्टका, स्त्री, (मांसेन सम्पाद्या अष्टका । मांसप्रधाना अष्टका वा ।) गौणचान्द्रमाघ- कृष्णाष्टमी । तत्र मांसोपकरणकश्राद्धमाबश्य- कम् । यथा । अथाष्टकाश्राद्धम् । “पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च । कृष्णपक्षे वरिष्ठा हि पूर्ब्बा चैन्द्री विभाव्यते ॥ प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी । आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा ॥ शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः ॥” मूले प्रधानस्थाने । अमावास्या हि श्राद्धस्य प्रधानकालः तद्वदिति यावत् । ऐन्द्री साग्ने- रिन्द्रदेवताकयागसम्बन्धात् । एवं प्राजापत्या वैश्वदेवकी च । मांसैः पशोः । तथा च गोभिलः । यद्युवाल्पतरसंभारः स्यात् तदा पशुनैव कुर्य्यादिति । यद्युवेति निपातसमुदायो यद्यर्थे । पशुरपि छाग एव । छागोऽनादेशे पशुरिति गोतमात् । न च तैष्या ऊर्द्धं अष्टम्यां गौरिति गोभिलसूत्रेण गवोपदेशात् कथमनु- पदिष्टत्वमिति वाच्यम् । तदसम्भवे पशुने- त्यनेन यः पशुरुपदिष्टस्तस्य विशेषतोऽनुप- दिष्टत्वात् । वस्तुतस्तु हरिवंशे मृगोऽपि विहितः । “इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् । मांसमानय श्राद्धाय मृगं हत्वा महाबल ! ॥” इत्यादिना मृगमांसबोधनात् ॥ पश्वभावे स्थाली- पाकेन । यथा, गोभिलः । अपि वा स्थाली- पाकं कुर्व्वीतेति । तद्विधानन्तु । “स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम् । श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु ॥” इति छन्दोगपरिशिष्टीयं ग्राह्यम् ॥ अन्विति ओदनचरोः पश्चात् । अतएव । “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च । तस्माद्दद्यात् सदा युक्तो विद्वत्मु ब्राह्मणेषु च ॥” इति शातातपेनोक्तम् ॥ तस्मादन्नं प्रधानं पूपादिकन्तु उपकरणत्वेन शक्तानामावश्यकं सदेति श्रवणात् । इति श्राद्धतत्त्वम् ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मांसाष्टका/ मांसा f. N. of the 8th day in the dark half of the month माघ(on which meat or flesh is offered to deceased ancestors) Col.
