सामग्री पर जाएँ

माकरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माकरी, स्त्री, (मकरयुक्ता पौर्णमास्यत्रेति । मकर + अण् + ङीष् ।) माघशुक्लसप्तमी । अत्र स्नानादिविधिर्यथा । भविष्ये । “सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥ माघे मासि सिते पक्षे सप्तमी कोटिभास्करा । दद्यात् स्नानार्ध्यदानाभ्यामायुरारोग्यसम्पदः ॥ अरुणोदयवेलायां शुक्ला माघस्य सप्तमी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समाः ॥” कोटिभास्करा कोटिसप्तमीतुल्या सप्तम्या भास्करदेवताकत्वात् । सूर्य्यग्रहणफलं स्नान- जम् । सन्निहिते बुद्धिरन्तरङ्गेतिन्यायात् । तेन बहुशतसूर्य्यग्रहणकालीनगङ्गास्नानजन्य- फलसमफलमत्र ज्ञेयम् ॥ * ॥ स्नानपरिपाटी माह कृत्यकल्पलतायां विष्णुः । सप्तवदरपत्राणि सप्तार्कपत्राणि च शिरसि निधाय, -- “ओ~ यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥” इत्युच्चार्य्य स्नायादिति शेषः । रोकं छिद्रम् । तिथिकृत्यस्य पौर्णमास्यन्तमासाङ्गत्वात् माक- रीपदं मकरार्कारब्धचान्द्रमासीयतिथिपरम् । तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च । विवाहादौ च सौरादिं मासं कृत्ये विनिर्द्दिशे- दिति ब्रह्मपुराणात् मन्वन्तरादित्वेन तथा युक्तत्वाच्च । यथा, मत्स्यपुराणम् । “यस्मान्मन्वन्तरादौ तु रथमापुर्दिवाकराः । माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी ॥ अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।” अतएव नारसिंहे रथाख्यायामित्युक्तम् ॥ * ॥ अर्घ्यदानपरिपाटी यथा, -- “अर्कपत्रैः सवदरैर्द्दूर्व्वाक्षतसचन्दनैः । अष्टाङ्गविधिनाचार्य्यं दद्यादादित्यतुष्टये । अष्टाङ्गमर्ध्यमापूर्य्य भानोर्मूर्द्ध्नि निवेदयेत् ॥ अर्घ्यमन्त्रस्तु । जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके । सप्तव्याहृतिके देवि नमस्ते रविमण्डले ॥ प्रणाममन्त्रस्तु । सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन । सप्तम्याञ्च नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ तस्यां सूर्य्यमुद्दिश्य रथयात्राफलं यथा, -- “माघमासस्य सप्तम्यां देवं शाम्बपुरं नराः । रथयात्रां प्रकुर्व्वन्ति सर्व्वद्वन्द्वविवर्जिताः ॥ गच्छन्ति तत्पदं शान्तं सूर्य्यमण्डलभेदकम् । एतत्ते कथितं देवि ! साम्बशापसमुद्भवम् । पापप्रशमनाख्यानं महापातकनाशनम् ॥” इति वराहपुराणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माकरी¦ स्त्री मकरस्य तत्स्थरविककालस्य इयम् अण्। म-करस्थितरविककाले तदारब्धमाघमासस्य शुक्लसप्तम्यां
“तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी” ति॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=माकरी&oldid=343220" इत्यस्माद् प्रतिप्राप्तम्