माघवनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माघवनम्, क्ली, इन्द्रसम्बन्धि वस्तु । मघवत इद- मित्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध- व्याकरणम् ॥ (मघवन् + अण् । “मघवा बहु- लम् ।” ६ । ४ । १२८ । इति विकल्पान्न- त्रादेशः । त्रि, यथा, माघे । ९ । २५ । “वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥”)
