माणिक्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माणिक्यम्, क्ली, (मणिप्रकारः । मणि “+ स्थूलादिभ्यः प्रकारवचने कन् ।” ५ । ४ । ३ । इति प्रशं- सायां कन् । ततो मणिकमेवेति । मणिक + “चातुर्वर्णादीनामुपसंख्यानम् ।” ५ । १ । १२४ । इति वार्त्तिकबलात् ष्यञ् ।) रत्नविशेषः । माणिक् इति भाषा । तत्पर्य्यायः । शोण- रत्नम् २ रत्नराट् ३ रविरत्नकम् ४ शृङ्गारी ५ रङ्गमाणिक्यम् ६ तरुणम् ७ रत्ननामकम् ८ रागयुक् ९ पद्मरागः १० रत्नम् ११ शोणो- पलः १२ सौगन्धिकम् १३ लोहितकम् १४ कुरुबिन्दम् १५ । अस्य गुणाः । मधुरत्वम् । कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश ॥ बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते । कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः । कार्षापणशतानान्तु विंशतिर्मूल्यमादिशेत् ॥ चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः । मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् ॥ द्बिमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ माषकैकमितो यस्तु पद्मरागो गुणान्वितः । शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः ॥ अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः । स्वर्णद्बिगुणमूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ कार्षापणः समाख्यातः पुराणद्वयसम्मितः । अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः ॥ काषाया इति विख्याताः स्फटिकप्रभावाश्च ते । तेषां दोषो गुणो वापि पद्मरागवदादिशेत् ॥ मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा । ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः ॥ चतुर्विधैर्नृपतिभिर्धार्य्याः सम्पत्तिहेतवे । अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम् ॥” इति युक्तिकल्पतरुः ॥ (यथा, कथासरित्सागरे । २६ । ४४ । “सोऽपि प्राप्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् । सौवर्णभित्ति सङ्केतकेतनं सम्पदामिव ॥” कदलीविशेषः । तद्यथा, -- “माणिक्यमर्त्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माणिक्य¦ न॰ मणिरिव कायति कै--क स्वार्थे ष्यञ्। (माणिक)
१ रक्तवर्णे रत्नभेदे,
२ गृहगोधिकायां स्त्री हेमच॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माणिक्य¦ n. (-क्यं) A ruby. f. (-क्या) A house-lizard. E. मणि a gem, कै to call, यत् or यञ् added.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माणिक्यम् [māṇikyam], A ruby; शैले शैले न माणिक्यम् Subhāṣ.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माणिक्य n. ruby Ka1v. Katha1s. etc.
माणिक्य m. N. of a man Ra1jat.
माणिक्य m. (with सूरि)N. of an author Cat.