सामग्री पर जाएँ

मातङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मातङ्गः, पुं, (मतङ्गस्येदं । मतङ्गस्यापत्यं पुमान् वा । मतङ्ग + अण् ।) हस्ती । इत्यमरः । ३ । ३ । २१ ॥ (यथा, रामायणे । १ । ६ । २३ । “बिन्ध्यपर्व्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिवलैर्मातङ्गैः पर्व्वतोपमैः ॥”) अश्वत्थवृक्षः । किरातजातिविशेषः । इति तट्टीकायां मथुरेशः ॥ श्वपचः । इति मेदिनी । गे, ४७ ॥ (यथा, कथासरित्सागरे । ७३ । २ । “सुदूरमन्वगायातं कार्य्याय कृतसंविदम् । सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥”) अर्हदुपासकविशेषः । इति हेमचन्द्रः । ४ । २८३ ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मातङ्गः [mātaṅgḥ], [मतङ्गस्य मुनेरयम् अण्]

An elephant; मातङ्गाः किमु वल्गितैः K. P.7; Śi.1.64.

A man of the lowest caste, a Chāṇḍāla.

A Kirāta, mountaineer or barbarian.

(At the end of comp.) Any thing the best of its kind; e. g. बलाहकमातङ्गः.

ङ्गी N. of Pārvatī.

N. of Vasiṣṭha's wife.

N. of one of the ten Mahāvidyās.

A Chāṇḍāla lady; नताङ्गी मातङ्गी रुचिर- गीतभङ्गी Ā. L. -Comp. -कुमारी a Chāṇḍāla girl. -जa. elephantine. -दिवाकरः N. of a poet. -नक्रः, -मकरः a crocodile as large as an elephant; मातङ्गनक्रैः सहसो- त्पतद्भिर्भिन्नान् द्विधा पश्य समुद्रफेनान् R.13.11. -लीला N. of a medical work.

"https://sa.wiktionary.org/w/index.php?title=मातङ्गः&oldid=344467" इत्यस्माद् प्रतिप्राप्तम्